This page has not been fully proofread.

१६८
 
श्रीविष्णुसहस्रनाम-
· विश्वेश्वरम्' इत्यादिना विश्वेश्वरोपासनादेव स्तोता-
रस्ते धन्याः कृतार्थाः कृतकृत्या इति दर्शयति ।
 
प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणादेव तद्विष्णो: संपूर्ण स्यादिति श्रुतिः ॥
आदरेण यथा स्तौति धनवन्तं धनेच्छया ।
तथा चेद्विश्वकर्तारं को न मुच्येत बन्धनात् ॥
इति व्यासवचनम् ॥
 
सहस्रनामसंबन्धिव्याख्या सर्वसुखावहा ।
 
श्रुतिस्मृतिन्यायमूला रचिता हरिपादयोः ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्री गोविन्दभगवत्पूज्यपाद शिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
विष्णुसहस्रनामस्तोत्रभाष्यम्
संपूर्णम् ॥