This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
श्रील्लोकान्व्याप्य भूतात्मा
भुङ्गे विश्वभुगव्ययः ॥ १४० ॥
 
१६७
 
' द्यौः सचन्द्रार्कनक्षत्रा' इत्यादिना स्तुत्यस्य वासुदेवस्य
माहात्म्यकथनेनोक्तानां फलानां प्राप्तिवचनं यथार्थकथनं
नार्थवाद इति दर्शयति । सर्वागमानामाचारः' इत्यने-

नावान्तरवाक्येन सर्वधर्माणामाचारवत एवाधिकार इति
दर्शयति ॥
 
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् ।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥
 
इमं स्तवम् इत्यादिना सहस्रशाखाज्ञानेन सर्वज्ञेन भग-
वता कृष्णद्वैपायनेन साक्षान्नारायणेन कृतमिति सर्वैरेव
अथिभिः सादरं पठितव्यं सर्वफलसिद्धय इति दर्शयति ॥
विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥
इति श्रीमहाभारते आनुशासनिके भीष्मयुधिष्ठिरसंवादे
विष्णोर्दिव्यसहस्रनामस्तोत्रं नाम
एकोनपञ्चाशदधिकशततमोऽध्यायः ॥