This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
ससुरासुरगन्धर्व सयक्षोरगराक्षसम् ।
जगहशे वर्तनेदं कृष्णस्य सचराचरम् ॥ १३५ ॥
 
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥
सर्वागमानामाचारः प्रथमं परिकल्पते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥१३७॥
 
ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं जगन्नारयणोद्भवम् ॥ १३८ ॥
 
योगो ज्ञानं तथा सांख्यं
 
विद्याः शिल्पादिकर्म च ।
 
वेदाः शास्त्राणि विज्ञान-
मेतत्सर्व जनार्दनात् ॥ १३९ ॥
 
एको विष्णुर्महद्भुतं
पृथग्भूतान्यनेकशः ।