This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनाम -
 
मध्ये भवतः परमः प्रकृष्टो धर्मः मतः अभिप्रेतः इति
पञ्चमः प्रश्नः । किं जप्यं जपन् उच्चोपांशुमानसलक्षणं जपं
कुर्वन् जन्तु: जननधर्मा । अनेन जन्तुशब्देन जपार्चनस्तव-
नादिषु यथायोग्यं सर्वप्राणिनामधिकारं सूचयति । जन्मसं-
सारबन्धनात् जन्म अज्ञानविजृम्भितानामविद्या कार्याणाम्
उपलक्षणम्, संसार: अविद्या, ताभ्यां जन्मसंसाराभ्यां यत्
बन्धनं तस्मात् मुच्यते मुक्तो भवति इति षष्ठः प्रश्नः ।
मुच्यते जन्मसंसारबन्धनात् इति इदमुपलक्षणम् इतरेषां
फलानामपि । एतद्ग्रहणं तु मोक्षस्य प्राधान्यख्यापनार्थम् ||
 
"
 

 
षट् प्रश्ना: कथिताः । तेषु पाश्चात्योऽनन्तरो जप्यविषय:
षष्ठः प्रश्नः अनेन श्लोकेन परिहिह्रियते--

श्रीभीष्म उवाच --
 
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥ ४ ॥
 
सर्वेषां बहिरन्तःशत्रूणां भयहेतु: भीष्मः मोक्षधर्मादीनां
प्रवक्ता सर्वज्ञः ॥
 
जगत् जङ्गमाजङ्गमात्मकम् तस्य<flag>तस्य</flag> प्रभुः स्वामी तम्, देवदेवं