2022-08-19 19:44:14 by epicfaace
This page has not been fully proofread.
श्रीविष्णुसहस्रनाम -
मध्ये भवतः परमः प्रकृष्टो धर्मः मतः अभिप्रेतः इति
पञ्चमः प्रश्नः । किं जप्यं जपन् उच्चोपांशुमानसलक्षणं जपं
कुर्वन् जन्तु: जननधर्मा । अनेन जन्तुशब्देन जपार्चनस्तव-
नादिषु यथायोग्यं सर्वप्राणिनामधिकारं सूचयति । जन्मसं-
सारबन्धनात् जन्म अज्ञानविजृम्भितानामविद्या कार्याणाम्
उपलक्षणम्, संसार: अविद्या, ताभ्यां जन्मसंसाराभ्यां यत्
बन्धनं तस्मात् मुच्यते मुक्तो भवति इति षष्ठः प्रश्नः ।
मुच्यते जन्मसंसारबन्धनात् इति इदमुपलक्षणम् इतरेषां
फलानामपि । एतद्ग्रहणं तु मोक्षस्य प्राधान्यख्यापनार्थम् ||
"
४
षट् प्रश्ना: कथिताः । तेषु पाश्चात्योऽनन्तरो जप्यविषय:
षष्ठः प्रश्नः अनेन श्लोकेन परिहियते--
श्रीभीष्म उवाच -
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥ ४ ॥
सर्वेषां बहिरन्तःशत्रूणां भयहेतु: भीष्मः मोक्षधर्मादीनां
प्रवक्ता सर्वज्ञः ॥
जगत् जङ्गमाजङ्गमात्मकम् तस्य प्रभुः स्वामी तम्, देवदेवं