This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
इमं स्तवमधीयानः
श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्ति-
श्रीधृतिस्मृतिकीर्तिभिः ॥ १३२ ॥
 
श्रद्धा आस्तिक्यबुद्धिः । भक्तिः भजनं तात्पर्यम् ।
आत्मनः सुखम् आत्मसुखम् । तेन च क्षान्त्यादिभिश्च
युज्यते ॥
 
नक्रोधो न च मात्सर्य
 
नलोभो नाशुभा मतिः ।
 
भवन्ति कृतपुण्यानां
 
१६५
 
भक्तानां पुरुषोत्तमे ॥ १३३ ॥
 
नक्रोधः नलोभः नाशुभा मतिः इति ञकारानुबन्धरहि-
तेन नकारेण समस्तं पदत्रयम्; क्रोधादयो न भवन्ति, मा-
त्सर्यं च न भवतीत्यर्थः ॥
 
द्यौः सचन्द्रार्कनक्षत्रा ग्वं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥१३४॥