This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
१६३
 
6
 
संन्यासयोगाद्यतयः शुद्धसत्त्वा: ' ' ते ब्रह्मलोके तु परान्त-
काले परामृतात्परिमुच्यन्ति सर्वे' इत्यादिश्रुतिभ्यः । शूद्रः
सुखमवाप्नुयात् श्रवणेनैव, न तु जपयज्ञेन, तस्मा-
च्छद्रो यज्ञेऽनवक्लमः' इति श्रुतेः । 'श्रावयेचतुरो वर्णा-
न्कृत्वा ब्राह्मणमग्रतः' इति महाभारते श्रवणमनुज्ञायते ।
 
"
 
• सुगतिमियाच्छ्रवणाच्च शूद्रयोनिः' इति हरिवंशे । यः
शूद्रः शृणुयात् स सुखमवाप्नुयात इति व्यवहितेन सं-
बन्धः ; त्रैवर्णिकानां कीर्तयेदित्यनेन ॥
 
धर्मार्थी प्राप्नुयाद्धर्म-
मर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी
 
प्रजार्थी चाप्नुयात्प्रजाम् ॥ १२४ ॥
 
चक्षुरादीनामात्मयुक्तेन मनसाधिष्ठितानां स्वेषु स्वेषु वि
षयेष्वानुकूल्यात् प्रवृत्तिः कामः । प्रजायत इति प्रजा
संततिः ॥
 
भक्तिमानित्यादिना भक्तिमतः शुचे: सततमेवमुद्युक्तस्यै
काग्रचित्तस्य श्रद्धालो: विशिष्टाधिकारिणः फलविशेषं दर्श-
यति-