This page has not been fully proofread.

१६२
 
श्री विष्णुसहस्रनाम-
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ।
कर्मणा वध्यते जन्तुर्विद्ययैव विमुच्यते ॥
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ।
यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः ॥
आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् ॥
तपसा कल्मषं हन्ति विद्ययामृतमश्नुते । इति ॥
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ।
यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ॥
 
इत्यादिस्मृतिभ्यः, 'तमेतं वेदानुवचनेन ब्राह्मणा विविदि-
षन्ति यज्ञेन दानेन तपसानाशकेन' 'येन केन च यजे-
तापि वा दविहोमेनानुपह्तमना एव भवति' इत्यादिश्रु-
तिभ्यः । ज्ञानादेव मोओ भवति,
ज्ञानादेव तु कैवल्यं
 
6
 

 
प्राप्यते तेन मुच्यते' 'ब्रह्मविदाप्नोति
 
परम्' 'तरति शोक-
6
 
,
 
मात्मवित्' 'ब्रह्म वेद ब्रह्मैव भवति' ब्रह्मैव सन्ब्रह्मा-
प्येति' 'तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यते-
ऽयनाय' इति । 'आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन '
'इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टि : '
'यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः तदा देवमवि-
ज्ञाय दुःखस्यान्तो भविष्यति' 'न कर्मणा न प्रजया धनेन
त्यागेनैके अमृतत्वमानशु: ' 'वेदान्तविज्ञानसुनिश्चितार्थाः