2022-09-09 02:55:04 by ambuda-bot
This page has not been fully proofread.
स्तोत्रभाष्यम् ।
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात्किंचित्सोऽमुत्रेह च मानवः ॥
य इदं शृणुयान् इत्यादिः स्पष्टार्थः । परलोकप्राप्तस्यापि
ययातिनहुपादिवद्शुभप्राप्त्यभावं सूचयितुम् अमुत्र इत्युक्तम् ॥
वेदान्तगो ब्राह्मणः स्या-
त्क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्या-
च्छूद्रः सुखमवाप्नुयात् ॥ १२३ ॥
वेदान्तानामुपनिषदामर्थं ब्रह्म गच्छत्यवगच्छतीति वेदा-
न्तगः । 'किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात्' इति
वचनात् जपकर्मणा साक्षान्मुक्तिशङ्कायां कर्मणां साक्षा-
न्मुक्तिहेतुत्वं नास्ति, ज्ञानेनैव मोक्ष इति दर्शयितुं वेदान्तगो
ब्राह्मण : स्यात् इत्युक्तम् । कर्मणां त्वन्तःकरणशुद्धिद्वारेण
मोनहेतुत्वम्,
कषायपक्ति: कर्माणि ज्ञानं तु परमा गतिः ।
कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ॥
नित्यं ज्ञानं समासाद्य नरो बन्धात्प्रमुच्यते ।
धर्मात्सुखं च ज्ञानं च ज्ञानान्मोक्षोऽधिगम्यते ॥
S. M. B. 11