This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
१६०
 
फलं प्रागेव दर्शितम्
-
 
एकोऽपि कृष्णे सुकृतः प्रणामो दशाश्वमेधावभृथेन तुल्य: ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥
 
अतसीपुष्पसंकाशं पीतवाससमच्युतम् ।
ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥
लोकत्रयाधिपतिमप्रतिमप्रभाव-
मीषत्प्रणम्य शिरसा प्रभविष्णुमीशम् ।
जन्मान्तरप्रलयकल्पसहस्रजात-
माशु प्रशान्तिमुपयाति नरस्य पापम् ॥ इति ॥
इति नाम्नां दशमं शतं विवृतम् ॥
 
इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥
 
इतीदम् इत्यनेन नामसहस्रन्यूनानतिरिक्तमुक्तमिति दर्श-
यति दिव्यानामप्राकृतानां नाम्नां सहस्रं प्रकीर्तित मिति वदता
प्रकारान्तरेणापि संख्योपपत्तिर्दर्शिता । प्रक्रमे 'किं जप-
न्मुच्यते जन्तुः' इति जपशब्दोपादानात् कीर्तयेत् इत्यने-
नापि त्रिविधजपो लक्ष्यते । उच्चोपांशुमानसलक्षणस्त्रिविधो
 
जपः ॥