This page has not been fully proofread.

म्तोत्रभाष्यम् ।
 
भृत् विद्यामयो नन्दकाख्योऽसिरस्येति नन्दकी । मन-
स्तत्त्वात्मकं सुदर्शनाख्यं चक्रमस्याम्तीति संसारचक्रमस्या-
ज्ञया परिवर्तत इति वा चक्री । इन्द्रियाग्रहंकारात्मकं
शानाम धनुरस्यास्तीति शार्ङ्गधन्वा धनुषश्च' इति
अनङ् समासान्तः । बुद्धितत्त्वात्मिकां कौमोदकी नाम गदां
वहन् गदाधरः । रथाङ्गं चक्रमस्य पाणौ स्थितमिति रथा-
पाणि: । अत एव अशक्यक्षोभणः इति अक्षोभ्यः । केवलम्
एतावन्त्यायुधान्यस्येति न नियम्यते, अपि तु सर्वाण्येव
प्रहरणान्या युधान्यस्येति सर्वमहरणायुधः आयुधत्वेनाप्र-
सिद्धान्यपि करजादीन्यस्यायुधानि भवन्तीति । अन्ते सर्व-
प्रहरणायुध इति वचनं सत्यसंकल्पत्वेन सर्वेश्वरत्वं दर्शयितुम्,
एष सर्वेश्वरः' इति श्रुतेः । द्विर्वचनं समाप्तिं द्योतयति ।
ॐकारश्च मङ्गलार्थः, ॐकारश्चाथशव्दश्च द्वावेतौ ब्रह्मणः
पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ' इति
वचनात् । अन्ते 'नमः' इत्युक्त्या परिचरणं कृतवान्,
'धन्यं
 
6
 
6
 
' भूयिष्ठां ते नमउक्ति विधेम' इति मन्त्रवर्णात् ।
 
,
 
१५९
 
तदेव लग्नं तन्नञ्जत्रं तदेव पुण्यमहः । करणम्य च सा
सिद्धिर्यत्र हरिः प्राङ् नमस्क्रियते' इति च । प्रागित्युप-
अन्तेऽपि नमस्कारस्य शिष्टैराचरणात् । नमस्कार-
लक्षणम्,