This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
यकारणत्वं हरेः । विशेषेण खननान् वैखानः, धरणीं विशे-
पेण खनित्वा पातालवासिनं हिरण्याक्षं वाराहं रूपमास्थाय
जघानेति पुराणे प्रसिद्धम । सामानि गायतीति सामगा-
यनः । देवक्याः सुतो देवकीनन्दनः ।
' ज्योतींषि शु-
क्राणि च यानि लोके त्रयो लोका लोकपालास्त्रयी च ।
त्रयोऽग्नयःचाहुतयश्च पश्च सर्वे देवा दवकीपुत्र एव' इति
महाभारते । स्रष्टा सर्वलोकस्य । क्षितेर्भूमेरीशः क्षितीशः
दशरथात्मजः । कीर्तितः पूजितो ध्यातः स्मृतः पापराशिं
नाशयन् पापनाशनः ; पक्षोपवासाद्यत्पापं पुरुषस्य प्रण-
श्यति । प्राणायामशतेनैव तत्पापं नश्यते नृणाम् ॥ प्राणा-
यामसहस्रेण यत्पापं नश्यते नृणाम् । क्षणमात्रेण तत्पापं
हरेर्ध्यानात्प्रणश्यति' इति वृद्धशातातपे ॥
 
6
 
शङ्खभृन्नन्दकी चक्री
 
शार्ङ्गधन्वा गदाधरः ।
 
रथाङ्गपाणिरक्षोभ्यः
 
सर्वप्रहरणायुधः ।
सर्वप्रहरणायुधों नमः ॥ १२० ॥
 
पाञ्चजन्याख्यं भूताद्यहंकारात्मकं शङ्ख विभ्रत् शङ्ख-