This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
१५७
 
यज्ञं विभर्ति पातीति वा यज्ञभृत् । जगदादौ तदन्ते च
यज्ञं करोति, कृन्ततीति वा यज्ञकृत् । यज्ञानां तत्समाराध-
नात्मनां शेषीति यज्ञी । यज्ञं भुङ्क्ते, भुनक्तीति वा यज्ञभुक् ।
यज्ञाः साधनं तत्प्राप्ताविति यज्ञसाधनः । यज्ञस्यान्तं फलप्रा-
प्तिं कुर्वन यज्ञान्तकृत्; वैष्णवीऋक्शंसनेन पूर्णाहुत्या पूर्ण
कृत्वा यज्ञसमाप्तिं करोतीति वा यज्ञान्तकृत् । यज्ञानां
गुह्यं ज्ञानयज्ञः, फलाभिसंधिरहितो वा यज्ञः; तदभेदो-
पचारान् ब्रह्म यज्ञगुह्यम् । अद्यते अत्ति च भूतानीति अन्न-
म् । अन्नमत्तीति अन्नादः । सर्व जगदन्नादिरूपेण भोक्तृ-
भोग्यात्मकमेवेति दर्शयितुमेवकार: ; च - शब्दः सर्वनाम्नामेक-
स्मिन्परन्मिन्पुंसि समुच्चिय वृत्ति दर्शयितुम ॥
 
आत्मयोनिः स्वयंजानो
 
वैखान: सामगायनः ।
 
देवकीनन्दनः स्रष्टा
 
क्षितीशः पापनाशनः ॥ ११९ ॥
 
आत्मैत्र योनिरुपादानकारणं नान्यदिति आत्मयोनिः ।
निमित्तकारणमपि स एवेति दर्शयितुं स्वयंजातः इति ;
'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधान्' इत्यत्र स्थापितमुभ-