This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
अहोरावेक्षणो दिव्यो वेदाङ्ग श्रुतिभूषणः ।
आज्यनासः स्रुवतुण्ड : सामघोषस्वनो महान ॥
धर्मसत्यमयः श्रीमान्क्रमविक्रमसत्क्रियः ।
प्रायश्चित्तनखो घोरः पशुजानुर्महाभुजः ॥
उद्भात्रन्त्रो होमलिङ्गः फलबीजमहौषधिः ।
बाह्यान्तरात्मा मन्त्रस्फिग्विकृतः सोमशोणितः ॥
वेदीस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान् ।
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरचितः ॥
दक्षिणाहृदयो योगी महासत्रमयो महान् ।
उपाकर्मोष्ठरुचकः प्रवर्ग्यावर्तभूषणः ॥
 
१५६
 
नानाच्छन्दोगतिपथो गुह्योपनिषदासनः ।
छाया पत्नीसहायो वै मेरुशृङ्ग इवोच्छ्रितः ॥
 
फलहेतुभूतान्यज्ञान् वाहयतीति यज्ञवाहनः ॥
 
यज्ञभृद्यज्ञकृयज्ञी
 
यज्ञभुग्यज्ञसाधनः ।
 
इति हरिवंशे ।
 
यज्ञान्तकृद्यज्ञगुह्य-
मन्नमन्नाद् एव च ॥ ११८ ॥