This page has not been fully proofread.

परम् अयनं प्राप्तव्यं स्थानं परायणम् । यदाज्ञया प्रवर्तन्ते
सर्वे; यस्मिन्नधिगते हृदयग्रन्थिर्भिद्यते, 'भिद्यते हृदयग्रन्थि-
श्छिद्यन्ते सर्वसंशया: । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे
परावरे' इति श्रुतेः; यस्य विज्ञानमात्रेण आनन्दलक्षणो मोक्षः
प्राप्यते; यद्विद्वान्न बिभेति कुतश्चन; यत्प्रविष्टस्य न विद्यते
पुनर्भवः; यस्य च वेदनात्तदेव भवति, 'ब्रह्म वेद ब्रह्मैव
भवति' इति श्रुतेः; यद्विहायापरः पन्थाः नृणां नास्ति,
'नान्यः पन्था विद्यतेऽयनाय' इति श्रुतेः; तदुक्तम् एकं
परायणम् । लोके तत्किम् इति द्वितीयः प्रश्नः । कं कतमं देवं
स्तुवन्तः गुणकीर्तनं कुर्वन्तः, कं कतमं देवम् अर्चन्तः बाह्यमा-
भ्यन्तरं वा अर्चनं बहुविधं कुर्वन्त: मानवा: मनुसुता: शुभं
कल्याणं स्वर्गापवर्गादि फलं प्राप्नुयुः लभेरन् इति पुनः प्रश्न-
द्वयम् ॥
 
को धर्मः सर्वधर्माणां
भवतः परमो मतः ।
किं जपन्मुच्यते जन्तु-
र्जन्मसंसारबन्धनात् ॥ ३ ॥
 
को धर्म: पूर्वोक्तलक्षणः सर्वधर्माणां सर्वेषां धर्माणां