This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
भूर्भुवः स्वस्तरुस्तारः
 
सविता प्रपितामहः ।
 
यज्ञो यज्ञपतिर्यज्वा
 
१५५
 
यज्ञाङ्गो यज्ञवाहनः ॥ ११७ ॥
 
6
 
भूर्भुव: स्व:समाख्यानि त्रीणि व्याहृतिरूपाणि शुक्राण
त्रयीसाराणि बह्वृचा आहुः; तैर्होमादिना जगत्रयं तरति.
लवते वेति भूर्भुवःस्वस्तरु: 'अग्नौ प्रास्ताहुति: सम्यगादि-
त्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः' इति
मनुवचनान; अथवा, भूर्भुवः स्वः समाख्यलोकत्रयसंसारवृक्ष
भूर्भुवःस्वस्तरुः; भूर्भुवःस्वराख्यं लोकत्रय वृक्षवद्वयाप्य ति-
ष्ठतीति वा भूर्भुवःस्वस्तरुः । संसारसागरं तारयन् तारः,
प्रणवो वा । सर्वम्य लोकस्य जनक इति सविता । पिताम-
हस्य ब्रह्मणोऽपि पितेति प्रपितामहः । संगन्ता यज्ञः, यज्ञा-
नां पाता, स्वामी वा यज्ञपतिः, अयं हि सर्वयज्ञानां भो-
क्ता च प्रभुरेव च' इति भगवद्वचनान् । यजमानात्मना
तिष्ठन् यज्वा । यज्ञा अङ्गान्यस्येति वराहमूर्ति: यज्ञाङ्गः,
 
-
 
वेदपादो यूपदंष्ट्रः ऋतुहस्तश्चितीमुखः ।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥