This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
प्रमितिः संवित्स्वयंप्रभा प्रमाणम्, 'प्रज्ञानं ब्रह्म' इति
श्रुतेः । 'ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थतः । तमेबार्थ-
स्वरूपेण भ्रान्तिदर्शनतः स्थितम्' इति विष्णुपुराणे । प्राणा
इन्द्रियाणि यत्र जीवे निलीयन्ते तत्परतन्त्रत्वात्, देहस्य
धारका: प्राणापानादयो वा तस्मिन्निलीयन्ते, प्राणितीति
प्राणो जीव: परे पुंसि निलीयत इति वा प्राणान् जीवांश्च
संहरन्निति वा प्राणनिलयः । पोपयन्नन्नरूपेण प्राणान् प्राण-
भृत् प्राणिनो जीवयन् प्राणाख्यैः पवनैः प्राणजीवनः, 'न
प्राणेन नापानेन मर्त्यो जीवति कञ्चन । इतरेण तु जीवन्ति
यस्मिन्नेताबुपाश्रितो' इति मन्त्रवर्णात् । तत्त्वं तथ्यममृतं सत्यं
परमार्थः सतत्त्वमित्येते एकार्थवाचिनः परमार्थसतो ब्रह्मणो
वाचकाः शब्दाः । तत्त्वं स्वरूपं यथावद्वेत्तीति तत्त्ववित् ।
एक श्वासावात्मा चेति एकात्मा, 'आत्मा वा इदमेक एवाग्र
आसीत्' इति श्रुतेः, 'यच्चाप्नोति यदादत्ते यच्चात्ति विषया-
निह । यच्चास्य संततो भावस्तस्मादात्मेति गीयते' इति
स्मृतेश्च । 'जायते अस्ति वर्धते विपरिणमते अपक्षीयते
नश्यति' इति षड्भावविकारानतीय गच्छतीति जन्ममृत्यु -
जरातिगः, 'न जायते म्रियते वा विपश्चित्' इति मन्त्र-
वर्णात् ॥
 
१५४