This page has not been fully proofread.

श्रीविष्णुसहस्रनाम -
 
आदिः कारणमस्य न विद्यत इति अनादिः, सर्वका-
रणत्वात् । भूराधारः, भुवः सर्वभूताश्रयत्वेन प्रसिद्धाया
भूम्या', भुवोऽपि भूरिति भूर्भुवः । अथवा, न केवलमसौ
भूः भुवः, लक्ष्मीः शोभा चेति भुवो लक्ष्मीः । अथवा,
भूः भूलोकः ; भुवः भुवर्लोक:; लक्ष्मीः आत्मविद्या,
' आत्मविद्या च देवि त्वम् ' इति श्रीस्तुतौ । भूम्यन्तरिक्षयोः
शोभेति वा भूर्भुवो लक्ष्मी । शोभना विविधा ईरा गतयो
यस्य सः सुवीरः; शोभनं विविधम् ईर्ते इति वा सुवीरः ।
रुचिरे कल्याणे अङ्गदे अस्येति रुचिराङ्गदः । जन्तून् जनयन
जननः; ल्युड्डिधौ बहुलग्रहणात्कर्तरि ल्युट् प्रत्ययः प्रयोगव-
चनादिवत् । जनस्य जनिमतो जन्म उद्भवः तस्यादि: मूल-
कारणमिति जनजन्मादिः । भयहेतुत्वात् भीमः, ' भीमाद -
योऽपादाने' इति निपातनात् 'महद्भयं वज्रमुद्यतम्' इति
श्रुतेः । असुरादीनां भयहेतुः पराक्रमोऽस्यावतारेध्विति भीम-
पराक्रमः ॥
 
१५२
 
"
 
आधारनिलयोऽधाता
 
पुष्पहासः प्रजागरः ।
 
ऊर्ध्वगः सत्पथाचार:
 
प्राणदः प्रणवः पणः ॥ ११५ ॥