2022-09-09 02:55:02 by ambuda-bot
This page has not been fully proofread.
स्तोत्रभाष्यम् ।
१५१
अनन्तरूपोऽनन्तश्री-
जितमन्युर्भयापहः ।
चतुरश्रो गभीरात्मा
विदिशो व्यादिशो दिशः ॥ ११३ ॥
अनन्तानि रूपाण्यस्य विश्वप्रपञ्च रूपेण स्थितस्येति अ-
नन्तरूपः । अनन्ता अपरिमिता श्रीः परशक्तिरस्येति अन-
न्तश्रीः, 'परास्य शक्तिर्विविधैव श्रूयते' इति श्रुतेः । मन्युः
क्रोधो जितो येन सः जितमन्युः । भयं संसारजं पुंसामप-
घ्नन् भयापहः । न्यायसमवेत : चतुरश्रः, पुंसां कर्मानु-
रूपं फलं प्रयच्छतीति । आत्मा स्वरूपं चित्तं वा गभीरं प-
रिच्छेत्तुमशक्यमस्येति गभीरात्मा । विविधानि फलानि
अधिकारिभ्यो विशेषेण दिशतीति विदिशः । विविधामाज्ञां
शक्रादीनां कुर्वन व्यादिशः । समस्तानां कर्मणां फलानि
दिशन् वेदात्मना दिशः ॥
अनादिर्भूर्भुवो लक्ष्मी
सुवीरो कचिराङ्गदः ।
जननो जनजन्मादि-
र्भीमो भीमपराक्रमः ॥ ११४ ॥