2022-09-09 02:55:02 by ambuda-bot
This page has not been fully proofread.
श्रीविष्णुसहस्रनाम-
परिकीर्तयेन् । नाशुभं प्राप्नुयात्किचित्सोऽमुत्रेह् च मानवः '
इति श्रवणादिफलवचनात् ॥
१५०
उत्तारणो दुष्कृतिहा
पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो
जीवनः पर्यवस्थितः ॥ ११२ ॥
संसारसागरादुत्तारयतीति उत्तारणः । दुष्कृती: पाप-
संज्ञिता: हन्तीति दुष्कृतिहा, पापकारिणस्तान्हन्तीति वा
दुष्कृतिहा । स्मरणादि कुर्वतां सर्वेषां पुण्यं करोतीति,
सर्वेषां श्रुतिस्मृतिलक्षणया वाचा पुण्यमाचष्ट इति वा
पुण्यः । भाविनोऽनर्थस्य सूचकान दुःस्वप्नान नाशयति
ध्यात: स्तुत: कीर्तितः पूजितश्चेति दुःस्वप्ननाशनः । विवि
धा: संसारिणां गती: मुक्तिप्रदानेन हन्तीति वीरहा । सत्त्वं
गुणमधिष्ठाय जगत्रयं रक्षन् रक्षण: ; नन्द्यादित्वाकर्तरि
ल्युः । सन्मार्गवर्तिनः सन्त: ; तद्रूपेण विद्याविनयवृद्धये स
एत्र वर्तत इति सन्तः । सर्वा: प्रजा: प्राणरूपेण जीवयन्
जीवनः । परितः सर्वतो विश्व व्याप्यावस्थित इति
पर्यवस्थितः ॥
,