This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
विद्वत्समो वीतभ्यः
पुण्यश्रवणकीर्तनः ॥ १११ ॥
 
दक्षः,
 
क्रौर्य नाम मनोधर्म: प्रकोपज: आन्तर : संताप : साभि-
निवेशः ; अवाप्तसमस्तकामत्वात्कामाभावादेव कोपाभावः;
तम्मात्क्रौर्यमस्य नास्तीति अक्रूरः । कर्मणा मनसा वाचा व-
पुषा च शोभनत्वात् पेशल: । प्रवृद्धः शक्तः शीघ्रकारी च
त्र्यं चैतत् परस्मिन्नियतमिति दक्षः । दक्षिणशब्दस्या-
पि दक्ष एवार्थः, पुनरुक्तिदोषो नास्ति, शब्दभेदान्; अथवा,
दक्षते गच्छति, हिनस्तीति वा दक्षिणः, 'दक्ष गतिहिंसन-
यो: ' इति धातुपाठान । क्षमावतां योगिनां च पृथिव्यादी-
नां भारधारकाणां च श्रेष्ठ इति क्षमिणां वरः ।
6 क्षमया
पृथिवीसम : ' इति वाल्मीकिवचनात्; ब्रह्माण्डमखिलं व-
हुन् पृथिवीव भारेण नार्दित इति पृथिव्या अपि वरो वा;
क्षमिणः शक्ता: ; अयं तु सर्वशक्तिमत्त्वात्सकला: क्रिया: क
तु क्षमत इति वा क्षमिणां वरः । निरस्तातिशयं ज्ञानं स-
वंदा सर्वगोचरमस्यास्ति नेतरेषामिति विद्वत्तमः । वीतं त्रि-
गतं भयं सांसारिकं संसारलक्षणं वा अभ्येति वीतभयः,
सर्वेश्वरत्वान्नित्यमुक्तत्वाच्च । पुण्यं पुण्यकरं श्रवणं कीर्तनं
चास्येति पुण्यश्रवणकीर्तनः, 'य इदं शृणुयान्नित्यं यश्चापि