2022-09-09 02:55:02 by ambuda-bot
This page has not been fully proofread.
श्रीविष्णुसहस्रनाम -
धत्त इति चक्री, 'चलस्वरूपमत्यन्तं जवेनान्तरितानिलम् ।
चक्रस्वरूपं च मनो धत्ते विष्णुः करे स्थितम्' इति
विष्णुपुराणवचनात् । विक्रम : पादविक्षेपः, शौर्य वा; द्वयं
।
चाशेषपुरुषेभ्यो विलक्षणमस्येति विक्रमी । श्रुतिस्मृतिलक्ष-
णमूर्जितं शासनमस्येति ऊर्जितशासनः 'श्रुतिस्मृती ममैवा-
ज्ञे यस्ते उल्लङ्घ्य वर्तते । आज्ञाच्छेदी मम द्वेषी मद्भक्तोऽपि
न वैष्णवः' इति भगवद्वचनान् । शव्द प्रवृत्तिहेतूनां जात्या-
दीनामसंभवात् शब्देन वक्तुमशक्यत्वान् शब्दातिगः, 'य-
तो वाचो निवर्तन्ते । अप्राप्य मनसा सह ' 'न शब्दगोचरे
यस्य योगिध्येयं परं पदम्' इत्यादिश्रुतिस्मृतिभ्यः । सर्वे वेदाः
तात्पर्येण तमेव वदन्तीति शब्दसहः; 'सर्वे वेदा यत्पद-
मामनन्ति' इति श्रुतेः ' वेदैश्च सर्वैरहमेव वैद्यः' इति स्मृते-
श्च । तापत्रयाभितप्तानां विश्रामस्थानत्वात् शिशिरः । सं-
सारिणामात्मा शर्वरीव शर्वरी; ज्ञानिनां पुन: संसार : श-
वरी; तामुभयेषां करोतीति शर्वरीकरः, 'या निशा सर्वभू-
तानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा
निशा पश्यतो मुनेः' इति भगवद्वचनात् ॥
।
१४८
अक्रूरः पेशलो दक्षो
दक्षिणः क्षमिणां वरः ।