This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
१४७
 
क्षणं स्वस्ति । तदेव भुङ्ग इति स्वस्तिभुक्; भक्तानां मङ्गलं
म्वस्ति भुनक्तीति वा स्वस्तिभुक् । स्वस्तिरूपेण दक्षते
बर्धते, स्वम्ति दातुं समर्थ इति वा स्वस्तिदक्षिणः । अथ-
वा, दक्षिणशव्द आशुकारिणि वर्तते; शीघ्रं स्वस्ति दातुम्
अयमेव समर्थ इति, यस्य स्मरणादेव सिध्यन्ति सर्वसि-
द्धयः, 'स्मृते सकलकल्याणभाजनं यत्र जायते । पुरु-
पस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ स्मरणादेव कृष्ण-
स्य पापसंघातपञ्जरम् । शतधा भेदमायाति गिरिर्वत्रहतो
यथा' इत्यादिवचनेभ्यः ।
 
अरौद्रः कुण्डली चक्री
विक्रम्यूर्जितशासनः ।
 
शब्दानिगः शब्दसहः
 
शिशिरः शर्वरीकरः ॥ ११० ॥
 
कर्म रौद्रम्, रागच रौद्रः, कोपश्च रौद्रः यस्य रौद्रत्रयं
नास्ति अवाप्रसर्वकामत्वेन रागद्वेषादेरभावात् अरौद्रः । शेष-
रूपभाक् कुण्डली सहस्रांशुमण्डलोपमकुण्डलधारणाद्वा; यद्वा,
सांख्ययोगात्मके कुण्डले मकराकारे अस्य स्त इति कुण्ड-
ली। समस्तलोकरक्षार्थं मनम्तत्त्वात्मकं सुदर्शनाख्यं चक्रं