This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
आश्चर्यवत्पश्यति कश्चिदेनम्' इति भगवद्वचनाच्च । स्वरू-
पशक्तिव्यापारकार्यैः अद्भुतत्वा अद्भुतः ॥
 
१४६
 
सनात्सनातनतमः
 
कपिलः कपिरप्ययः ।
 
स्वस्तिदः स्वस्तिकृत्स्वस्ति
 
स्वस्ति भुक्स्वस्तिदक्षिणः ॥ १०९ ॥
 
सनात् इति निपातः चिरार्थवचनः । कालश्च परस्यैव
विकल्पना कापि । 6 ' परस्य ब्रह्मणो रूपं पुरुष: प्रथमं द्विज ।
व्यक्ताव्यक्ते तथैवान्ये रूपे कालस्तथापरम्' इति विष्णु-
पुराणे । सर्वकारणत्वात् विरिश्चयादीनामपि सनातनाना-
मतिशयेन सनातनत्वात् सनातनतमः । बडबानलस्य
कपिलो वर्ण इति तद्रूपी कपिलः । कं जलं रश्मिभिः
पिवन कपिः सूर्यः; कपिः वराहो वा, 'कपिराहः श्रे
ष्टच' इति वचनात् । प्रलये अस्मिन्नपियन्ति जगन्तीति
 
,
 
अप्ययः ।
 
इति नाम्नां नवमं शतं विवृतम् ॥
 
भक्तानां स्वस्ति मङ्गलं ददातीति स्वस्तिदः । तदेव
करोतीति स्वस्तिकृत् । मङ्गलस्वरूपमात्मीयं परमानन्दल-