This page has not been fully proofread.

युधिष्ठिरः शांतनवं
पुनरेवाभ्यभाषत ॥ १ ॥
 
श्रीवैशम्पायन: जनमेजयं प्रत्युवाच -- धर्मान् अभ्युद-
दयनिःश्रेयसोत्पत्तिहेतुभूतान् चोदनालक्षणान् अशेषेण का-
र्त्स्न्येन पावनानि पापक्षयकराणि धर्मरहस्यानि च सर्वशः
सर्वैः प्रकारैः श्रुत्वा युधिष्ठिरो धर्मपुत्रः शांतनवं शंतनुपुत्रं
भीष्मं सकलपुरुषार्थसाधनं सुखसंपाद्यम् अल्पप्रयासम् अन-
ल्पफलम् अनुक्तमिति कृत्वा पुनः भूय एव अभ्यभाषत
प्रश्नं कृतवान् ॥
 
युधिष्ठिर उवाच --
 
किमेकं दैवतं लोके

किं वाप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः

प्राप्नुयुर्मानवाः शुभम् ॥ २ ॥
 
किमेकं दैवतं देव इत्यर्थः, स्वार्थे तद्धितप्रत्ययविधानात्,
लोके लोक नहेतुभूते समस्तविद्यास्थाने उक्तमिति प्रथमः प्रश्नः ।
किं वाप्येकं परायणं तस्मिन् लोके एकं परायणं च किम् ?