2022-09-09 02:55:01 by ambuda-bot
This page has not been fully proofread.
स्तोत्रभाष्यम् ।
१४५
रविलोचनः, 'अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ' इति श्रुतेः ॥
अनन्तो हुनभुरभोक्ता
सुग्वदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी
लोकाधिष्ठानमद्भुतः ॥ १०८ ॥
नित्यत्वात्सर्वगतत्वात् देशकालपरिच्छेदाभावात् अनन्तः;
शेषरूपो वा । हुतं भुनक्तीति हुतभुक् । प्रकृतिं भोग्याम्
अचेतनां भुङ्क्ते इति, जगत्पालयतीति वा भोक्ता । भक्तानां
सुखं मोक्षलक्षणं ददातीति सुखदः; असुखं द्यति खण्डय-
तव असुखदः । धर्मगुप्तये असकृज्जायमानत्वात्
नैकजः । अग्रे जायत इति अग्रजः हिरण्यगर्भः, 'हिरण्यगर्भः
सुमवर्तता' इत्यादिश्रुतेः । अवाप्तसर्वकामत्वादप्राप्तिहेत्वभा-
वान्निर्वेदोऽस्य नास्तीति अनिर्विणः । सतः साधून् आभि-
मुख्येन मृष्यते क्षमत इति सदामर्षी । तमनाधारमाधार-
मधिष्ठाय बयो लोकास्तिष्ठन्ति इति लोकाधिष्ठानं ब्रह्म ।
अद्भुतत्वात् अद्भुतः, 'श्रवणायापि बहुभिर्यो न लभ्यः
शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलो-
Sस्य लब्धा आश्चर्या ज्ञाता कुशलानुशिष्ट : ' इति श्रुतेः ।
१
M. B 10