This page has not been fully proofread.

१४४
 
श्रीविष्णुसहस्रनाम-
पूजनीय इति अर्हः । न केवलं प्रियार्ह एव, किंतु स्तु-
त्यादिभिः भजतां प्रियं करोतीति प्रियकृत् । तेषामेव प्रीतिं
वर्धयतीति प्रीतिवर्धनः ॥
 
विहायसगतिज्र्ज्योतिः
सुरुचिर्हुतभुग्विभुः ।
रविर्विरोचनः सूर्यः
 
सविता रविलोचनः ॥ १०७ ॥
 
विहायसं गतिराश्रयोऽस्येति विहायसगतिः, विष्णुपदम्,
आदित्यो वा । स्वत एव द्योतत इति ज्योतिः, 'नारायणः
परं ज्योति: ' इति मन्त्रवर्णात् । शोभना रुचिर्दीप्तिरिच्छा
वा अस्येति सुरुचिः । समस्तदेवतोद्देशेन प्रवृत्तेष्वपि कर्मसु
हुतं भुते भुनक्तीति वा हुतभुक् । सर्वत्र वर्तमानत्वात्,
त्रयाणां लोकानां प्रभुत्वाद्वा विभुः । रसानादत्त इति रविः
आदित्यात्मा । विविधं रोचत इति विरोचनः । सूते: सुव-
तेर्वा सूर्यशब्दो निपात्यते, 'राजसूयसूर्य' इति पाणिनिव-
चनात् मूर्यः । सर्वस्य जगतः प्रसविता सविता; 'रसानां
च तथादानाद्रविरित्यभिधीयते । प्रजानां तु प्रसवनात्सवि-
तेति निगद्यते' इति विष्णुधर्मोत्तरे । रविर्लोचनं चक्षुरस्येति