This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
इति अपराजितः । सर्वकर्मसु समर्थ इति, सर्वान् शत्रून्
सहत इति वा सर्वसहः । सर्वान् स्वेषु स्वेषु कृत्येषु व्यव-
स्थापयतीति नियन्ता । न नियमो नियतिस्तस्य विद्यत इति
अनियमः, सर्वनियन्तुः नियन्त्रन्तराभावान् । नास्य विद्यते
यमो मृत्युरिति अयमः । अथवा. यमनियमौ योगाङ्गे ; त-
गम्यत्वात्स एव नियमः यमः ॥
 
१४३
 
सत्यवान्सात्त्विकः सत्यः
सत्यधर्मपरायणः 1
 
अभिप्रायः प्रियाहर्होऽर्हः
प्रियकृत्प्रीतिवर्धनः ॥ १०६ ॥
 
शौर्यवीर्यादिकं सत्त्वमस्येति सत्त्ववान् । सत्त्वे गुणे प्रा-
धान्येन स्थित इति साच्चिकः । सत्सु साधुत्वात् सत्यः ।
सत्ये यथाभूतार्थकथने धर्मे च चोदनालक्षणे नियत इति
सत्यधर्मपरायणः । अभिप्रेयते पुरुषार्थकादिभिः, आभि-
मुख्येन प्रलग्रेऽस्मिन्प्रैति जगदिति वा अभिप्रायः । प्रियाणि
इष्टान्यर्हतीति प्रियार्हः, 'यद्यदिष्टतमं लोके यच्चास्य दयितं
गृहे । तत्तद्गुणवते देयं तदेवाक्षयमिच्छता' इति स्मरणात् ।
स्वागतासनप्रशंसार्घ्यपाद्यस्तुतिन मस्कारादिभिः पूजासाधनैः