This page has not been fully proofread.

१४२
 
श्री विष्णुसहस्रनाम-
सदा ददातीति सर्वकामद', 'फलमत उपपत्ते : ' इति व्या-
सेनाभिहितत्वान् । आश्रमवत् सर्वेषां संसारारण्ये भ्रमतां
विश्रमस्थानत्वात् आश्रमः । अविवेकिनः सर्वान्संतापयतीति
श्रमणः । क्षामाः क्षीणा: सर्वा. प्रजा: करोतीति क्षामः,
• तत्करोति तदाच' इति णिचि पचाद्यचि कृते संपन्न: क्षाम
इति । शोभनानि पर्णानि च्छन्दांसि संसारतरुरूपिणोऽस्ये-
ति सुपर्णः, 'छन्दांसि यस्य पर्णानि ' इति भगवद्वचनात् ।
वायुर्वहति यीत्या भूतानीति सः वायुवाहनः, 'भीषास्मा-
द्वातः पवते' इति श्रुतेः ॥
 
धनुर्धरो धनुर्वेदो
 
दण्डो दमयिता दमः ।
अपराजितः सर्वसहो
 
नियन्ता नियमोऽयमः ॥ १०५ ॥
 
श्रीमान् रामो महद्धनुर्धारयामासेति धनुर्धरः । स एव
दाशरथि: धनुर्वेदं वेत्तीति धनुर्वेदः । दमनं दमयतां दण्डः
'दण्डो दमयतामस्मि' इति भगवद्वचनात् । वैवस्वतनरे-
न्द्रादिरूपेण प्रजा दमयतीति दमयिता । दम दम्येषु
दण्डकार्यं फलम्, तच्च स एवेति दमः । शत्रुभिः न पराजित