This page has not been fully proofread.

श्रीविष्णुसहस्रनाम -
 
"
 
.
 
सौक्ष्म्यातिशयशालित्वात् अणुः, 'एषोऽणुरात्मा चेतसा
वेदितव्यः' इति श्रुतेः । बृहत्वाहणत्वाञ्च ब्रह्म बृहत् म
हतो महीयान्' इति श्रुतेः । अस्थूलम्' इत्यादिना द्रव्यत्वप्र-
तिषेधात् कृशः । स्थूलः इति उपचर्यते सर्वात्मत्वात् । सत्त्वर-
जस्तमसां सृष्टिस्थितिलयकर्मस्वाधिष्ठातृत्वात् गुणभृत् । वस्तुतो
गुणाभावात निर्गुणः, 'केवलो निर्गुणश्च' इति श्रुतेः । शब्दा-
दिगुणरहितत्वान् निरतिशयसूक्ष्मत्वात् नित्यशुद्ध सर्वग
तत्वादिना च प्रतिबन्धकं धर्मजातं तर्कतोऽपि यतो वक्तुं
न शक्यम् अत एव महान् । अनङ्गोऽशब्दोऽशरीरोऽस्पर्शश्च
महाञ्छुचि: ' इति आपस्तम्ब: । पृथिव्यादीनां धारकाणामपि
धारकत्वान्न केनचिद्भियत इति अधृतः । यद्येवमयं केन
धार्यत इत्याशङ्कयाह - स्वेनैव आत्मना धार्यत इति
स्वधृतः 'स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि'
इति श्रुतेः । शोभनं पद्मोदरतलताम्रमभिरूपतममस्यास्यमिति
स्वास्यः; वेदात्मको महान् शब्दराशि: तस्य मुखान्निर्गतः
पुरुषार्थोपदेशार्थमिति वा स्वास्यः, अस्य महतो भूतस्य'
इत्यादिश्रुतेः । अन्यस्य वंशिनो वंशाः पाश्चात्त्याः; अस्य
वंशः प्रपञ्चः प्रागेव, न पाश्चात्त्य इति माग्वंशः । वंश
प्रपञ्चं वर्धयन् छेदयन् वा वंशवर्धनः ॥
 
6