This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
१३९
 
मिधः सप्त जिह्वाः' इति मन्त्रवर्णात् । सप्त अश्वा वाहना-
न्यस्येति सप्तवाहनः; सप्तनामैकोऽवो वाहनमस्येति वा.
'एकोऽश्वो बहति सप्तनामा' इति श्रुते । मूर्तिर्घनरूपं
धारणसमर्थं चराचरलक्षणम्, 'ताभ्योऽभितप्ताभ्यो मूर्तिर-
जायत' इति श्रुतेः ; तद्रहित इति अमृर्तिः; अथवा, देह-
संस्थानलक्षणा मूर्छितागावयवा मूर्ति, तद्रहितः इति अ
मूर्तिः । अघं दु.खं पापं चास्य न विद्यते इति अनघः ।
प्रमात्रादिसाक्षित्वेन सर्वप्रमाणागोचरत्वात् अचिन्त्यः; अ
यमीदृश इति विश्वप्रपञ्चविलक्षणत्वेन चिन्तयितुमशक्य-
त्वात् अचिन्त्यः । असन्मार्गवर्तिनां भयं करोति, भक्तानां
भयं कृन्तति कृणोतीति वा भयकृत् । वर्णाश्रमाचारवतां
भयं नाशयतीति भयनाशनः; 'वर्णाश्रमाचारवता पुरु-
षेण परः पुमान् । विष्णुराराध्यते पन्था नान्यस्तत्तोषका-
रकः' इति पराशरवचनात् ॥
 
अणुबृहत्कृशः स्थूलो
गुणभृन्निर्गुणो महान् ।
 
अधृतः स्वधृतः स्वास्यः
 
प्राग्वंशो वंशवर्धनः ॥ १०३ ॥