This page has not been fully proofread.

१३८
 
श्रीविष्णुसहस्रनाम -
 
6
 
उदुम्बरः; पृषोदरादित्वादेवोकार देश; यद्वा उदुम्बरम-
नाद्यम्; तेन तदात्मना विश्वं पोषयन् उदुम्बरः, 'ऊर्जा
अन्नायमुदुम्बरम्' इति श्रुतेः; न्यग्रोधोदुम्बर इत्यत्र वि
सर्गलोपे संधिरार्षः । श्वोऽपि न स्थातेति अश्वत्थः ।
पृषोदरादित्वादेव सकारस्य तकारादेश: ; 'ऊर्ध्वमूलोऽवा-
क्शाख एषोऽश्वत्थः सनातन : ' इति श्रुतेः, 'ऊर्ध्वमूल-
मधःशाखमश्वत्थं प्राहुरव्ययम्' इति स्मृतेश्च । चाणूरना-
मानमन्धं निषूदितवानिति चाणूरान्धनिषूदनः ॥
 
सहस्रार्चिः सप्तजिह्वः
 
सतैधाः सप्तवाहनः ।
 
अमूर्तिरनघोऽचिन्त्यो
 
भयकृद्भयनाशनः ॥ १०२ ॥
 
सहस्राणि अनन्तानि अचषि यस्य सः सहस्रार्चिः,
'दिवि सूर्यसहस्रस्य' इति गीतावचनात् । सप्त जिह्वा
अस्य सन्तीति सप्तजिह्व:, 'काली कराली च मनोजवा च
सुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च
देवी लेलायमाना इति सप्त जिह्वा' इति श्रुतेः । सम
एधांसि दीप्तयोऽस्येति सप्तैधा: अग्नि:, 'सप्त ते अग्ने स-
"