This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
6
 
दाशा वाञ्छा अस्येति वा । मृतं मरणम्, तद्रहितं वपुरस्येति
अमृतवपुः । सर्वे जानातीति सर्वज्ञः । यः सर्वज्ञः सर्व-
वित्' इति श्रुतेः । 'सर्वतोक्षिशिरोमुखम्' इति भगवद्वच-
नात् सर्वतोमुखः ॥
 
सुलभः सुव्रतः सिद्धः
 
शत्रुजिच्छत्रुतापनः ।
न्यग्रोधोदुम्बरोऽश्वत्थ-
चाणूरान्धनिषूदनः ॥ १०१ ॥
 
१३७
 
पत्नपुष्पफलादिभिः भक्तिमात्रसमर्पितः सुखेन लभ्यत
इति सुलभः । 'पत्रेषु पुष्पेषु फलेषु तोयेष्वक्री तलभ्येषु
सदैव सत्सु । भक्त्येकलभ्ये पुरुषे पुराणे मुक्यै कथं न
क्रियते प्रयत्नः' इति महाभारते । शोभनं व्रतयति भुङ्क्ते
भोजनान्निवर्तत इति वा सुत्रतः । अनन्याधीन सिद्धित्वात्
सिद्धः । सुरशत्रव एवास्य शत्रवः ; तान् जयतीति शत्रु-
जित् । सुरशत्रूणां तापनः शत्रुतापनः । न्यक् अर्वाक्
रोहति सर्वेषामुपरि वर्तत इति न्यग्रोधः; पृषोदरादित्वात
हकारस्य धकारादेश: ; सर्वाणि भूतानि न्यक्कृत्य निज-
मायां वृणोति निरुणद्धीति वा । अम्बरादुद्गतः कारणत्वेनेति