This page has not been fully proofread.

१३६
 
श्री विष्णुसहस्रनाम-
स्वच्छतया स्फटिकनिर्मल: कुन्द; कुं पृथ्वीं कश्यपाया-
दादिति वा कुंदः ; 'सर्वपापविशुद्धयर्थं वाजिमेधेन चेष्टवान् ।
तस्मिन्यज्ञे महादाने दक्षिणां भृगुनन्दनः ॥ मारीचाय ददौ
प्रीतः कश्यपाय वसुंधराम्' इति हरिवंशे ; कुं पृथ्वीं
द्यति खण्डयतीति वा कुंदः । कुशव्देन पृथ्वीश्वरा
लक्ष्यन्ते ;
 
निःक्षत्रियां यश्च चकार मेदिनी-
मनेकशो बाहुवनं तथाच्छिनत् ।
यः कार्तवीर्यस्य स भार्गवोत्तमो
 
ममास्तु माङ्गल्यविवृद्धये हरिः ॥
 
इति विष्णुधर्मे ।
 
पर्जन्यवदाध्यात्मिकादितापत्रयं शमयति, सर्वान्कामा-
नभिवर्षतीति वा पर्जन्यः स्मृतिमात्रेण पुनातीति पावनः ।
इलति प्रेरणं करोतीति इल:, तद्रहितत्वात् अनिलः;
इलति स्वपिति इत्यज्ञ इल:, तद्विपरीत: नित्यप्रबुद्धस्वरू-
पत्वादिति वा; अथवा निलतेर्गहनार्थात्कप्रत्ययान्ताद्रूपम;
अगहनः अनिलः, भक्तेभ्य: सुलभ: इति । स्वात्मामृत-
मश्नातीति अमृताशः । मथितममृतं सुरान् पाययित्वा
स्वयं चाश्नातीति वा अमृताशः ; अमृता अनश्वरफलत्वा-