This page has not been fully proofread.

॥ श्रीः ॥
 
विष्णुसहस्रनामस्तोत्रम्
 
श्रीमच्छंकरभगवत्पादविरचितेन
 
भाष्येण सहितम् ।
 
सञ्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे ।
नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥ १ ॥
 
कृष्णद्वैपायनं व्यासं सर्वभूतहिते रतम् ।
वेदाब्जभास्करं वन्दे शमादिनिलयं मुनिम् ॥ २ ॥
 
सहस्रमूर्तेः पुरुषोत्तमस्य सहस्त्रनेत्राननपादबाहोः ।
सहस्रनाम्नां स्तवनं प्रशस्तं निरुच्यते जन्मजरादिशान्त्यै ॥ ३ ॥
 
श्रीवैशम्पायन उवाच -
 
श्रुत्वा धर्मानशेषेण
 
पावनानि च सर्वशः ।
 
S.M. B. 1