This page has not been fully proofread.

१३४
 
श्रीविष्णुसहस्रनाम -
 
क्ष्यते ; रत्नवत्सुन्दरा नाभिरस्येति रत्ननाभः । शोभनं लोच-
नं नयनं ज्ञानं वा अस्येति सुलोचनः । ब्रह्मादिभिः पूज्यत-
मैरपि अर्चनीयत्वात् अर्कः । वाजमन्नमर्थिनां सनोति ददा-
तीति वाजसनः । प्रलयाम्भसि शृङ्गवन्मत्स्यविशेषरूपः
शृङ्गो; मत्वर्थीयोऽतिशायने इनिप्रत्ययः । अरीन् अतिशयन
जयति, जयहेतुर्वा जयन्तः । सर्वविषयं ज्ञानमस्येति सर्व-
वित्; आभ्यन्तरान् रागादीन् बाह्यान् हिरण्याक्षादींश्च दु-
र्जयान् जेतुं शीलमस्येति जयी; तच्छीलाधिकारे 'जिदृक्षि'
इत्यादिपाणिनीयवचनात् इनिप्रत्ययः; सर्वविच्चासौ जयी
चेति सर्वविज्जयी इत्येकं नाम ॥
 
सुवर्णविन्दुरक्षोभ्यः
सर्ववागीश्वरेश्वरः ।
 
महाहूदो महागत
 
महाभूतो महानिधिः ॥ १९ ॥
विन्दवोऽत्रयवाः सुवर्णसदृशा अस्येति सुवर्णबिन्दुः, ' आ-
प्रणखात्सर्व एव सुवर्ण: ' इति श्रुतेः; शोभनो वर्णोऽक्षरं
बिन्दुश्च यस्मिन्मन्त्रे तन्मन्त्रात्मा वा सुवर्णविन्दुः ॥
 
इति नाम्नामष्टमं शतं विवृतम् ॥