This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
१३३
 
तपत्' इति श्रुते ; लोकसार: प्रणवः, तेन प्रतिपत्तव्य
इति वा; पृषोदरादित्वात्साधुत्वम् । शोभनस्तन्तुर्विस्तीर्ण:
प्रपञ्चोऽस्येति सुतन्तुः । तमेव तन्तुं वर्धयति च्छेदयतीति
वा तन्तुवर्धनः । इन्द्रस्य कर्मेव कर्मास्येति इन्द्रकर्मा, ऐश्वर्य-
कर्मेत्यर्थः । महान्ति वियदादीनि भूतानि कर्माणि कार्या
ण्यस्येति महाकर्मा । कृतमेव सर्व कृतार्थत्वात्, न कर्तव्यं
किंचिदपि कर्मास्य विद्यत इति कृतकर्मा; धर्मात्मकं कर्म
कृतवानिति वा । कृतः वेदात्मक आगमो येनेति कृतागमः,
अस्य महतो भूतस्य नि.श्वसितमेतत्' इत्यादिश्रुतेः ॥
 
6
 
उद्भवः सुन्दरः सुन्दो
 
रत्ननाभः सुलोचनः ।
अर्को वाजसनः श्रृङ्गी
 
जयन्तः सर्वविजयी ॥ १८ ॥
 
उत्कृष्टं भवं जन्म स्वेच्छया भजति इति, उद्गतमगतं
जन्मास्य सर्वकारणत्वादिति वा उद्भवः । विश्वातिशायिसौ-
भाग्यशालित्वात् सुन्दरः । सुष्ठु उनत्तीति सुन्दः, उदी क्लेद-
ने इत्यस्य धातोः पचाद्यच्; आर्द्राभावस्य वाचकः करुणाकर
इत्यर्थः ; पृषोदरादित्वात्पररूपत्वम् । रत्नशब्देन शोभा ल-