This page has not been fully proofread.

श्रीविष्णुसहस्रनाम-
"
 
वर्तमानत्वात् न निवर्तते आत्मा विषयेभ्योऽस्येति अनि-
वृत्तात्मा । जेतुं न शक्यत इति दुर्जयः । भयहेतुत्वाद-
स्याज्ञां सूर्यादयो नातिक्रामन्तीति दुरतिक्रमः, ' भयाद -
स्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्यु-
र्धावति पञ्चमः' इति मन्त्रवर्णात्, 'महद्भयं वज्रमुद्यतम्
इति च । दुर्लभया भक्त्या लभ्यत्वान् दुर्लभः, 'जन्मान्तर-
सहस्रेषु तपोज्ञानसमाधिभिः । नराणां क्षीणपापानां कृष्णे
भक्तिः प्रजायते' इति व्यासवचनात्, ' भक्त्या लभ्य-
स्त्वनन्यया' इति भगवद्वचनाच्च । दुःखेन गम्यते ज्ञायत
इति दुर्गमः । अन्तरायप्रतिहतैर्दुःखावाप्यत इति दुर्गः ।
दुःखेनावास्यते चित्ते योगिभिः समाधाविति दुरावासः ।
दुरारिणो दानवादयः तान् हन्तीति दुरारिहा ॥
 
१३२
 
शुभाङ्गो लोकसारङ्गः
सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा
 
कृतकर्मा कृतागमः ॥ ९७ ॥
 
शोभनैरङ्गैः ध्येयत्वात् शुभाङ्गः । लोकानां सारं सार-
ङ्गवत् भृङ्गवद्गृहातीति लोकसारङ्गः, 'प्रजापतिर्लोकानभ्य-