This page has not been fully proofread.

१३०
 
श्रीविष्णुसहस्रनाम-
प्रग्रहो निग्रहो व्यग्रो
नैकशृङ्गो गदाग्रजः ॥ १४ ॥
 
तेजसामम्भसां सर्वदा आदित्यरूपेण वर्षणात् तेजोवृषः ।
युतिमङ्गगतां कान्ति धारयन् द्युतिधरः । सर्वशस्त्रभृतां श्रे
ट. सर्वभूतां वरः । भक्तरुपहृतं पत्रपुष्पादिकं प्रगृहा-
तीति प्रग्रहः, धावतो विषयारण्ये दुर्दान्तेन्द्रियवाजिनः त
त्प्रसादेन रश्मिनेव वनातीति वा प्रग्रहवत् प्रग्रहः ; रश्मौ
च' इति पाणिनिवचनान् प्रग्रहशब्दस्य साधुत्वम् । स्ववशेन
सबै निगृह्णातीति निग्रहः । विगतमप्रमन्तो विनाशोऽस्येति
व्यग्रः; भक्तानामभीष्टप्रदानेषु व्यग्रः इति वा । चतुःशृङ्गो
नैकश्शृङ्गः, 'चत्वारि शृङ्गा' इति मन्त्रवर्णात् । निगदेन म
न्त्रेणाम्रे जायते इति निशब्दलोपं कृत्वा गदाग्रजः यद्वा
गदो नाम श्रीवासुदेवावरज:; तस्माद जायत इति गदा-
ग्रजः ॥
 
चतुर्मूर्तिश्चतुर्बाहु-
ऋतुर्व्यूहचतुर्गतिः ।
चतुरात्मा चतुर्भाव-
चतुर्वेद विदेकपात् ॥ ९५ ॥