This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
अचलः । वायुरूपेण चलतीति चलः ॥
 
अमानी मानदो मान्यो
 
लोकस्वामी त्रिलोकधृक् ।
 
सुमेधा मेधजो धन्यः
 
सत्यमेधा धराधरः ॥ १३ ॥
 
१२९
 
अनात्मवस्तुष्वात्माभिमानो नाम्त्यस्य स्वच्छसंवेदनाकृते-
रिति अमानी । स्वमायया सर्वेषामनात्मस्वात्माभिमानं द-
ढाति, भक्तानां सत्कारं मानं ददातीति, तत्त्व विदामनात्म-
स्वात्माभिमानं खण्डयतीति वा मानः । सर्वैर्माननीयः पू-
जनीयः सर्वेश्वरत्वात् इति मान्यः । चतुर्दशानां लोकानामी-
श्वरत्वात् लोकस्वामी । त्रीन् लोकान धारयतीति त्रिलो-
कधृक् । शोभना मेधा प्रज्ञास्येति सुमेधाः । 'नित्यमसि-
प्रजामेधयोः' इति समासान्तोऽसिच् । मेधेऽध्वरे जायत
इति मेधजः । कृतार्थो धन्यः । सत्या अवितथा मेधा अ
स्येति सत्यमेधाः । अंशैरशेषै: शेषाद्यैरशेषां धरां धारयन्
धराधरः ॥
 
चप्र
 
तेजोवृषो द्युतिधरः
सर्वशस्त्रभृतां वरः ।
 
M B. 9