This page has not been fully proofread.

१२८
 
श्रीविष्णुसहस्रनाम-
हितोपदेशं श्रुतिस्मृतिलक्षणं कृतवानिति वा लोकवन्धुः ।
लोकैनथ्यते याच्यते लोकानुपतपति आशास्ते लोका-
नामीष्टे इति वा लोकनाथः । मधुकुले जातत्वात् माधवः ।
भक्तस्नेहवान् भक्तवत्सलः ।
 
सुवर्णवर्णी हेमाङ्गो
 
वराङ्गश्चन्दनाङ्गदी ।
 
वीरहा विषमः शून्यो
 
घृताशीरचलचलः ॥ १२ ॥
 
सुवर्णस्येव वर्णोऽस्येति सुवर्णवर्णः, 'यदा पश्यः पश्यते
 
,
 
,
 
रुक्मवर्णम्' इति श्रुतेः हेमेवावपुरस्येति हेमाङ्गः, 'य
एषोऽन्तरादित्ये हिरण्मय पुरुष: ' इति श्रुतेः । वराणि शो-
भनान्यज्ञान्यस्येति वराङ्गः । चन्दनैराह्लादनैरङ्गदै: केयूभू-
षित इति चन्दनाङ्गदी । धर्मत्राणाय वीरान असुरमुख्यान
हन्तीति वीरहा। समो नास्य विद्यते सर्वविलक्षणत्वादिति
विषमः, 'न त्वत्समोऽस्त्यभ्यधिक कुतोऽन्यः' इति भगव-
द्वचनात् । सर्वविशेषरहितत्वान् शून्यवत् शून्य घृता:
विगलिताः आशिषः प्रार्थनाः अस्येति घृताशीः । न स्वरू-
पान्न सामर्थ्यान्न च ज्ञानादिकादुणात् । चलनं विद्यतेऽस्येति