This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
एको नैकः सवः कः किं
 
यत्तत्पद्मनुत्तमम् ।
 
लोकबन्धुर्लोकनाथो
 
माधवो भक्तवत्सलः ॥ ११ ॥
 
१२७
 
परमार्थतः सजातीयविजातीय स्वगतभेदविनिर्मुक्तत्वात् ए-
6
 
कः, 'एकमेवाद्वितीयम्' इति श्रुतेः । मायया बहूरूपत्वात्
नैकः, 'इन्द्रो मायाभिः पुरुरूप ईयते' इति श्रुतेः । सोमो
यत्वाभिषूयते सोऽध्वरः सवः । कशब्द सुखवाचकः, तेन
स्तूयत इति कः, 'कं ब्रह्म' इति श्रुतेः । सर्वपुरुषार्थरूप-
त्वाद्ब्रह्मैव विचार्यमिति ब्रह्म किम् । यच्छदेन स्वत:-
सिद्धवस्तू देशवाचिना ब्रह्म निर्दिश्यते इति ब्रह्म यत्,
'यतो वा इमानि भूतानि जायन्ते' इति श्रुतेः । तनोतीति
ब्रह्म तत् ;
'ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः
इति भगवद्वचनात् । पद्यते गम्यते मुमुक्षुभिरिति पदम् ।
यस्मादुत्कृष्टं नास्ति तत् अनुत्तमम् । सविशेषणमेकं नाम
पद्मनुत्तमम् इति । आधारभूनेऽस्मिन्सकला लोका वध्य
न्त इति लोकानां बन्धुः लोकबन्धुः; लोकानां जनकत्वा-
जनकोपमो बन्धुर्नास्तीति वा, लोकानां वन्धुकृत्यं हिता-
,