This page has not been fully proofread.

१२६
 
श्रीविष्णुसहस्रनाम-
3
 
हृदये जन्मान्तरमहस्रेषु भावनायोगात् तस्मात् दुर्धरः ।
'क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि ग-
तिर्दुःखं देहवद्भिरवाप्यते' इति भगवद्वचनात् । न आन्तरैः
रागादिभिर्वाह्यैरपि दानवादिभिः शत्रुभिः पराजित इति
अपराजितः ॥
 
विश्वमूर्तिर्महामूर्ति-
दीप्तमूर्तिरमूर्तिमान् ।
 
अनेक मूर्तिरव्यक्तः
 
शतमूर्तिः शताननः ॥ १० ॥
 
विश्वं मूर्तिरस्य सर्वात्मकत्वात् इति विश्वमूर्तिः । शेष-
पर्यङ्कशायिनोऽस्य महती मूर्तिरिति महामूर्तिः । दीप्ता
ज्ञानमयी मूर्ति यस्येति, स्वेच्छया गृहीता तैजसी मूर्ति:
दीप्ता अस्येति वा दीप्तमूर्तिः । कर्मनिबन्धना मूर्तिरस्य
न विद्यत इति अमृर्तिमान् । अवतारेषु स्वेच्छया लोका-
नामुपकारिणी: बढी मूर्तीर्भजत इति अनेकमूर्तिः । यद्यप्य
नेकमूर्तित्वमस्य, तथाप्ययमीदृश एवेति न व्यज्यत इति
अव्यक्तः। नानाविकल्पजा मूर्तयः संविदाकृतेः सन्तीति
शतमूर्तिः । विश्वादिमूर्तित्वं यतः अत एव शताननः ॥