2022-09-09 02:54:57 by ambuda-bot
This page has not been fully proofread.
१२४
श्रीविष्णुसहस्रनाम-
सद्गतिः सत्कृतिः सत्ता
सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः
सन्निवासः सुयामुनः ॥ ८८ ॥
'अस्ति ब्रह्मेति चेद्वेढ़ सन्तमेनं ततो विदुः' इति
श्रुतेः ब्रह्मास्तीति ये विदुस्ते सन्त:, तैः प्राप्यत इति
सद्गतिः ; सती गतिर्बुद्धिः समुत्कृष्टा अस्येति वा सद्गतिः ।
मती कृति: जगद्रक्षणलक्षणा अस्य यस्मात्तेन सत्कृतिः ।
इति नाम्नां सप्तमं शतं विवृतम् ॥
.
सजातीयविजातीयस्वगतभेदरहिता अनुभूतिः सत्ता,
'एकमेवाद्वितीयम्' इति श्रुतेः । सन्नेव परमात्मा चिदात्मकः
अबाधात् भासमानत्वाच्च सद्भूतिः; नान्यः प्रतीतेः बाध्य-
मानत्वाच्च न सन्नाप्यसत् । श्रौतो यौक्तिको वा बाध: प्रप-
ञ्चस्य विवक्षितः । सतां तत्त्वविदां परं प्रकृष्टमयनमिति
सत्परायणम् । हनूमत्प्रमुखा: सैनिका: शौर्यशालिनो यस्यां
सेनायाम्, सा शूरसेना यस्य स शूरसेनः । यदूनां प्रधान-
त्वान् यदुश्रेष्ठः । सतां विदुषामाश्रयः सन्निवासः । शोभना
यामुनाः यमुनासंबन्धिनः देवकीवसुदेवनन्दयशोदाबलभद्र-