This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
वसुप्रदो वासुदेवो
वसुर्वसुमना हविः ॥ ८७ ॥
 
मनसो बेग इव वेगोऽस्य सर्वगतत्वान् मनोजवः ।
चतुर्दशविद्यानां बाह्यविद्यासमयानां च प्रणेता प्रवक्ता
चेति तीर्थकरः । हयग्रीवरूपेण मधुकैटभो हत्वा विरि-
चाय सर्गादौ सर्वाः श्रुतीरन्याञ्च विद्या उपदिशन् वेद-
बाह्या विद्याः सुरवैरिणां वञ्चनाय चोपदिदेशेति पौराणिका
कथयन्ति । वसु सुवर्णं रेतोऽम्येति वसुरेताः, 'देव: पूर्व-
मपः सृष्ट्वा तासु वीर्यमपासृजन् । तण्डमभवद्धैमं ब्रह्मणः
कारणं परम्' इति व्यासवचनात् । वसु धनं प्रकर्षण
ददाति साक्षाद्धनाध्यक्षोऽयम्, इतरस्तु तत्प्रसादाद्धनाध्यक्ष
इति वसुप्रदः । वसु प्रकृष्टं मोक्षाख्यं फलं भक्तेभ्यः प्रद-
दातीति द्वितीयो वसुप्रद, ' विज्ञानमानन्दं ब्रह्म रातिर्दातुः
परायणं तिष्ठमानस्य तद्विदः' इति श्रुतेः ; सुरारीणां वसूनि
प्रकर्षेण खण्डयन् वा वसुप्रदः । वसुदेवस्थापत्यं वासुदेवः ।
वसन्ति भूतानि तत्र, तेष्वयमपि वसतीति वसुः । अवि-
शेषेण सर्वेषु विषयेषु वसतीति वसु, तादृशं मनोऽस्येति
वसुमनाः । 'ब्रह्मार्पणं ब्रह्म हविः' इति भगवद्वचनात्
हविः ॥
 
१२३