This page has not been fully proofread.

१२२
 
श्रीविष्णुसहस्रनाम-
त्मनि सर्वं जगत्तदात्मतया हूयन इति महाहविः । महाऋतु-
रित्याइयो बहुव्रीहयो वा ॥
 
स्तव्यः स्तवप्रियः स्तोत्रं
 
स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः
 
पुण्यकीर्तिरनामयः ॥ ८६ ॥
 
सर्वैः स्तूयते न स्तोता कस्यचित् इति स्तव्यः । अत
एव स्तवप्रियः । येन स्तूयते तत् स्तोत्रम्, गुणसंकीर्तना-
त्मकं तद्धरिरेवेति । स्तुतिः स्तवनक्रिया । स्तोता अपि स
एव । प्रियो रणः यस्य यतः पञ्च महायुधानि धत्ते सततं
लोकरक्षणार्थम् अतो रणप्रियः । सकलैः कामैः सकलाभिः
शक्तिभिश्च संपन्न इति पूर्ण: । न केवलं पूर्ण एव; पूर-
यिता च सर्वेषां संपद्भिः । स्मृतिमात्रेण कल्मषाणि क्षप-
यतीति पुण्यः । पुण्या कीर्तिरस्य यतः पुण्यमावहत्यस्य
कीर्तिः नृणामिति पुण्यकीर्तिः । आन्तरैर्वाह्यैर्व्याधिभिः
कर्मजैर्न पीड्यत इति अनामयः ॥
 
मनोजवस्तीर्थकरो
 
वसुरेता वसुप्रदः ।