This page has not been fully proofread.

स्तोत्रभाष्यम् ।
 
,
 
भौमस्य ब्रह्मणो गुप्यै दतिमग्निमिवारणिः' इति च महा-
भारते ॥
 
महाक्रमो महाकर्मा
 
6
 
महातेजा महोरगः ।
 
महाक्रतुर्महायज्वा
 
महायज्ञो महाहविः ॥ ८५ ॥
 
१२१
 
महान्तः क्रमाः पादविक्षेपा अस्येति महाक्रमः, 'शं नो
विष्णुरुरुक्रमः' इति श्रुतेः । महन् जगदुत्पत्त्यादि कर्मा-
स्येति महाकर्मा । यदीयेन तेजसा तेजस्विनो भास्करायः
तत्तेजो महदस्येति महातेजाः, 'येन सूर्यस्तपति तेजसेद्ध: '
इति श्रुतेः, 'यदादित्यगतं तेज: ' इति भगवद्वचनाच ।
क्रौर्यशौर्यादिभिर्धर्मैमहद्भिः समलंकृत इति वा महातेजाः ।
महांश्चासावुरगश्चेति महोरगः, 'सर्पाणामस्मि वासुकिः'
इति भगवद्वचनात् । महांश्चासौ ऋतुश्चेति महाक्रतुः,
`यथाश्वमेधः क्रतुराट्' इति मनुवचनात् ; सोऽपि स एवेति
स्तुतिः । महांश्चासौ यज्वा चेति लोकसंग्रहार्थं यज्ञान् निर्व-
र्तयन् महायज्वा । महांश्चासौ यज्ञश्चेति महायज्ञः, 'यज्ञानां
जपयज्ञोऽस्मि' इति भगवद्वचनात् । महच्च तद्धविश्वेति ब्रह्म