This page has not been fully proofread.

१२०
 
श्रीविष्णुसहस्रनाम-
ब्रह्मण्यो ब्रह्मकृद्रह्मा
ब्रह्म ब्रह्मविवर्धनः ।
 
ब्रह्मविद्राह्मणो ब्रह्मी
 
ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ८४ ॥
 
'तपो वेदाश्च विप्राश्च ज्ञानं च ब्रह्मसंज्ञितम्' तेभ्यो
हितत्वान् ब्रह्मण्यः । तपआदीनां कर्तृत्वात् ब्रह्मकृत् ।
ब्रह्मात्मना सर्वं सृजतीति ब्रह्मा । बृहत्त्वादृंहणत्वाञ्च स-
त्यादिलक्षणं ब्रह्म, 'सत्यं ज्ञानमनन्तं ब्रह्म' इति श्रुतेः ;
' प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् । वचसामात्मसंवेद्यं
तज्ज्ञानं ब्रह्मसंज्ञितम्' इति विष्णुपुराणे । तपआदीनां
विवर्धनात् ब्रह्मविवर्धनः । वेदं वेदार्थं च यथावद्वेत्तीति
ब्रह्मवित् । ब्राह्मणात्मना समस्तानां लोकानां प्रवचनं कुर्वन
वेद्यायमिति ब्राह्मणः । ब्रह्मसंज्ञितास्तच्छेषभूता इति
ब्रह्मी । वेदान् स्वात्मभूतान् जानातीति ब्रह्मज्ञः । ब्राह्म-
णानां प्रियो ब्राह्मणप्रियः; ब्राह्मणाः प्रिया अस्येति वा ।
' नन्तं शपन्तं परुषं वदन्तं यो ब्राह्मणं न प्रणमेद्यथार्हम् ।
स पापकृद्ब्रह्मवाग्निदग्धो वध्यश्च दण्ड्यश्च न चास्मदीय: '
इति भगवद्वचनात् । 'यं देवं देवकी देवी वसुदेवादजीजनत् ।