2022-09-09 02:54:57 by ambuda-bot
This page has not been fully proofread.
स्तोत्रभाष्यम् ।
११९
स चासौ देवश्चेति कामदेवः । कामिनां कामान् पालयतीति
कामपालः । पूर्णकामस्वभावत्वात् कामी । अभिरूपतमं
देहं वहन् कान्तः । द्विपरार्धान्ते कस्य ब्रह्मणोऽप्यन्तोऽस्मा-
दिति वा कान्तः । कृतः आगमः श्रुतिस्मृत्यादिलक्षणो येन
सः कृतागमः, 'श्रुतिस्मृती ममैवाज्ञे' इति भगवद्वचनात्,
'वेदाः शास्त्राणि विज्ञानमेतत्सर्व जनार्दनानु' इत्यत्रैव
वक्ष्यति । इदं तदीदृशं वेति निर्देष्टुं यन्न शक्यते गुणाद्यतीत-
त्वात् तदेव रूपमस्येति अनिर्देश्यवपुः । रोदसी व्याप्य
कान्तिरभ्यधिका स्थितास्येति विष्णुः ; 'व्याप्य मे रोदसी
नाथ कान्तिरभ्यधिका स्थिता । क्रमणाद्वाप्यहं पार्थ विष्णु-
रित्यभिसंज्ञितः' इति महाभारते । गत्यादिमत्त्वात् वीरः,
'वी गतिप्रजनकान्त्यसनखादनेषु' इति धातुपाठान् । व्या-
पित्वान्नित्यत्वात्सर्वात्मत्वाद्देशतः कालतो वस्तुतश्चापरिच्छिन्नः
अनन्तः, 'सत्यं ज्ञानमनन्तं ब्रह्म' इति श्रुतेः ; 'गन्धर्वा-
प्सरसः सिद्धाः किंनरोरगचारणा: । नान्तं गुणानां गच्छन्ति
तेनानन्तोऽयमव्ययः' इति विष्णुपुराणवचनाद्वा अनन्तः ।
यद्दिग्विजये प्रभूतं धनमजयत्तेन धनंजयः अर्जुनः,
' पाण्ड-
वानां धनंजयः' इति भगवद्वचनात् ॥