This page has not been fully proofread.

श्रीविष्णुसहस्रनाम -
 
शौर्यातिशयेनेष्टे इति शूरजनेश्वरः । त्रयाणां लोकानाम् अ
न्तर्यामितया आत्मेति, त्रयो लोका अस्मात्परमार्थतो न भि-
द्यन्ते इति वा त्रिलोकात्मा । त्रयो लोकाः तदाज्ञप्ता: स्वेषु
स्वेषु कर्मसु वर्तन्त इति त्रिलोकेशः । केशसंज्ञिता: सूर्या
दिसंक्रान्ता अंशवः, तद्वत्तया केशवः; 'अंशवो ये प्रकाश-
न्ते मम ते केशसंज्ञिताः । सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विज-
सत्तमाः' इति महाभारते । ब्रह्मविष्णुशिवाख्याः शक्तयः
केशसंज्ञिता:; तद्वत्तया वा केशवः ।
त्रयः केशिनः
इति श्रुतेः । 'मत्केशौ वसुधातले' इति केशशब्दः शक्ति-
पर्यायत्वेन प्रयुक्तः । 'को ब्रह्मेति समाख्यात ईशोऽहं सर्व-
देहिनाम् । आवां तवांशसंभूतौ तस्मात्केशवनामवान्' इति
हरिवंशे । केशिनामानमसुरं हतवानिति केशिहा। सहे-
तुकं संसारं हरतीति हरिः ।
 
6
 
११८
 
कामदेवः कामपालः
 
कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णु-
वरोऽनन्तो धनंजयः ॥ ८३ ॥
 
धर्मादिपुरुषार्थचतुष्टयं वाञ्छद्भिः काम्यत इति कामः ;